धारणाद्धर्ममित्याहुः

Keywords : धारणाद्धर्ममित्याहुः, कुलदीपसिहः, धर्मो विश्वस्य जगत: प्रतिष्ठा’’, भारतवर्षस्य पुण्यभुवि बहुप्राचीनकालाद् आरभ्य सनातनो वैदिकधर्म:


Abstract

भारतवर्षस्य पुण्यभुवि बहुप्राचीनकालाद् आरभ्य सनातनो वैदिकधर्म: सम्यक् पालित: परिपोषितश्च वर्तते। वैदिकधर्मोऽयं निखिलविश्वस्य आदिमधर्म उच्येत चेन्न कश्चन सन्देहलेशावकाश:। वेदस्य सन्देश: सर्वैरपि शास्त्रै: सुष्ठु उपबृंहितो वर्तते। नैकेषां ग्रन्थानां प्रणयनम् एतस्य प्रमाणभूतम्। सर्वेषामपि आचार्याणां, महर्षीणां, मनीषिणां च अयमेव उपदेशो यत् मानवजीवनस्य परमं लक्ष्यं नाम धर्मार्थकाममोक्षाणां चतुण्र्णां वर्गाणां फलप्राप्ति:। एतेषु चतुर्षु पुरुषार्थेषु धर्माख्यो हि प्रथम: पुरुषार्थ:। स एवान्येषां त्रयाणाम् अर्थ-काम-मोक्षाणां परमं साधनं भवति। अन्तिम: पुरुषार्थ: मोक्षस्तु तत्पूर्ववर्तिनां धर्मार्थकामानां चरमं लक्ष्यं भवति। परन्तु इदमवधेयं यद् धर्माद् ऋते अन्येषां पुरुषार्थानां प्राप्ति: नैव सम्भवति। अत: धर्म एव जगतो धारको भवति। धारकाद् ऋते धार्यस्य स्थिति: न कदापि सुदृढायते। उच्यते -

Download



Comments
No have any comment !
Leave a Comment