संस्कारः
- Author कुलदीपसिहः
- DOI http://wwj
- Country : India
- Subject : धर्मशास्त्र
पूण्यभूमौ भारतवर्षे विभिन्नेषु भारतीयप्राचीनग्रन्थेषु संस्कारशब्दस्य प्रयोगः दरीदृश्यते। सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते । तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते । विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते। संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुध्दिः पवित्रता चास्ति । स्नानाचमनादिजन्या: संस्कारा: देहे उत्पद्यमानानि जीवाः कल्पयन्ते । वस्तुतः मानवस्य कायिक- मानसिक- वाचिक परिशुद्ध्यर्थं धार्मिकक्रियानुष्ठानमेव संस्कारः। संस्करै: मानवः समाजस्यैक: पूर्णविकसित: सदस्यरूपेण परिगण्यते। संस्कारशब्दस्य अनेके समानार्थाः शब्दाः सन्ति । यथा - संस्करणं, परिष्करणं, विमलीकरणं, विशुद्धीकरणम्, इति ।
संस्कारशब्दस्य व्युत्पत्तिः यथा - 'सम्' उपसर्गपूर्वकं, 'कृञ् करणे' इति धातोः 'घञ्' प्रत्यये, अनन्तं च 'सुट्' योजिते संस्कारशब्दः निष्पद्यते । बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगः दृश्यते परिष्करण–भूषण-प्रशिक्षण-संस्कृति-स्वशुद्धिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्रयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतया वर्णितम् अस्ति यथा - वेदान्तिनां मते "देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। मीमांसादर्शने अस्य संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना भवति । नैयायिकमतम् यथा भावस्य व्यक्तिकरणार्थमात्मब्यञ्जन-शक्तिरेव संस्कारः इति । धर्मशास्त्रे तु मानवस्य कायिक–वाचिकपरिशुद्ध्यर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मविशेषः संस्कारः इति। दोषापनोदनपूर्वकं गुणाधानमेव संस्कार इति फलितम् ।
प्राचीनयुग पितृणामत्यधिका चिन्ता पुत्रस्य व्यक्तित्वविकासनार्थं वभूव "आत्मा पुत्रनामासि' इति शास्त्रवचनानुसारं पिता स्वयमेव पुत्ररूपेण जायते अयं सस्कार:। गर्भाधानात् अन्त्येष्टिपर्यन्तं द्विजमात्राणां सर्वे संस्काराः वैदिकमन्त्रैः भवन्ति । संस्कारेभ्यः एव मनुष्यः द्विजत्वं प्राप्नोति इति । संप्रति संस्कारस्य संख्याविषये विभिन्नग्रन्थेषु विभिन्नमतानि परिलक्ष्यन्ते । मनुना गर्भाधानादारभ्य अन्त्येष्टिपर्यन्तं त्रयोदशसंस्काराणां नामानि प्रोक्तानि ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम् बहिर्निष्कमणम्, अन्नप्राशनम्, कर्णवेधनम्, चूडाकर्म, उपनयनम्, केशान्तः, समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु केशान्तसंस्कारं विहायावशिष्टाः द्वादशसंस्काराः स्वीकृताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण केशान्तसंस्कारस्यान्तर्भावः कृतः । परन्तु अधुना षोडाशसंस्काराणां प्रसिद्धिलोकेऽस्मिन् परिलक्ष्यते। व्यासस्मृतौ एतेषां षोडशसंस्काराणां नामानि प्रोक्तानि यथा-
Comments
No have any comment !